(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.187. अध्यायः 187
Mahabharata - Drona Parva - Chapter Topics
द्रोणेन द्रुपदविराटादीनां वधः॥ 1 ॥ भीमेन निष्ठुरभाषणेन धृष्टद्युम्नमुद्योज्य द्रोणानीकाभिगमनम्॥ 2 ॥ चतुर्दशरात्रियुद्धसमाप्तिः॥ 3 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-187-0x(4764)(53652)
त्रिभागमात्रेषायां रात्र्यां युद्धमवर्तत।
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते॥ 7-187-1(53653)
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः।
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकृर्वन्निवाम्बरम्॥ 7-187-2(53654)
`प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव'।
प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम्।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम्॥ 7-187-3(53655)
ततो रथाश्वांश्च मनुष्ययाना--
न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः।
दिवाकरस्याभिमुखं जपन्तः
सन्ध्यागताः प्राञ्जलयो बभूवुः॥ 7-187-4(53656)
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्।
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः॥ 7-187-5(53657)
द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत्।
सपत्नान्सव्यतः कुर्याः सव्यसाचिन्निमान्कुरून्॥ 7-187-6(53658)
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत॥ 7-187-7(53659)
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह॥ 7-187-8(53660)
भीमसेन उवाच। 7-187-9x(4765)
अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः॥ 7-187-9(53661)
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे।
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि॥ 7-187-10(53662)
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि।
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु॥ 7-187-11(53663)
सञ्जय उवाच। 7-187-12x(4766)
स सव्यसाची भीमेन चोदितः केशवेन च।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्॥ 7-187-12(53664)
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान्।
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः।
नाशक्नुवन्वारयितुं वर्धमानमिवानलम्॥ 7-187-13(53665)
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः।
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम्॥ 7-187-14(53666)
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः।
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्॥ 7-187-15(53667)
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः।
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः॥ 7-187-16(53668)
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च।
तमश्च घोरं शब्दश्च तदा समभवन्महान्॥ 7-187-17(53669)
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते।
सैन्येन रजसा मूढं सर्वमन्घमिवाभवत्॥ 7-187-18(53670)
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम्।
`शब्दमात्रेण जानीमो वयं ते च परस्परम्'।
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः॥ 7-187-19(53671)
विरथा रथिनो राजन्समासाद्य परस्परम्।
केशेषु समसज्जन्त कवचेषु भुजेषु च॥ 7-187-20(53672)
हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः।
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः॥ 7-187-21(53673)
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः।
गतसत्वा व्यदृश्यन्त तथैव सह सादिभिः॥ 7-187-22(53674)
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम्।
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्॥ 7-187-23(53675)
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु।
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते॥ 7-187-24(53676)
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा।
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत॥ 7-187-25(53677)
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्।
नैनमाशंसिरे जेतुं दानवा वासवं यथा॥ 7-187-26(53678)
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः।
विस्मिताश्चाभवन्केचित्केचिद्वृष्टाऽभवन्युधि॥ 7-187-27(53679)
हस्तैर्हस्ताग्रमपरे प्रत्यपिम्पन्नराधिपाः।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः॥ 7-187-28(53680)
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्।
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः॥ 7-187-29(53681)
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः।
समसज्जन्त राजेन्द्र समरे भृशवेदनाः॥ 7-187-30(53682)
ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे।
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम्॥ 7-187-31(53683)
द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते।
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि॥ 7-187-32(53684)
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः।
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि॥ 7-187-33(53685)
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान्।
मात्स्यांश्चैवाजयत्कृत्स्नान्भारद्वाजो महारथान्॥ 7-187-34(53686)
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत्।
द्रोणं प्रति महाराज विराटश्चैव संयुगे॥ 7-187-35(53687)
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः।
तौ शरैश्छादयामास विराटद्रुपदावुभौ॥ 7-187-36(53688)
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ सङ्ग्राममूर्धनि।
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ॥ 7-187-37(53689)
तत द्रोणो महाराज क्रोधामर्षसमन्वितः।
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः॥ 7-187-38(53690)
ततो विराटः कुपितः समरे तोमरान्दश।
दश चिक्षेप च शरान्द्रोणस्य वधकाङ्क्षया॥ 7-187-39(53691)
शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम्।
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति॥ 7-187-40(53692)
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमारान्दश।
शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः॥ 7-187-41(53693)
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः।
द्रुपदं च विराटं च प्रेषयामास मृत्यवे॥ 7-187-42(53694)
हते विराटे द्रुपदे केकयेषु तथैव च।
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च॥ 7-187-43(53695)
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु।
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः॥ 7-187-44(53696)
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत्॥ 7-187-45(53697)
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्।
आयाद्द्रोणं सहानीकाः पाञ्चाल्यऋ परवीरहा॥ 7-187-46(53698)
पाञ्चालास्त्वेकतो द्रोणभ्यघ्नन्पाण्डवैः सह।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे॥ 7-187-47(53699)
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः।
यतमानास्तु पाञ्चाला न शेकुः प्रतिवीक्षितुम्॥ 7-187-48(53700)
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष।
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः॥ 7-187-49(53701)
भीमसेन उवाच। 7-187-50x(4767)
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः।
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्॥ 7-187-50(53702)
पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहर्षयेत्।
विशेषतस्तु शपथं शपित्वा राजसंसदि॥ 7-187-51(53703)
एष वैश्वानर इव समिद्धः स्वेन तेजसा।
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा॥ 7-187-52(53704)
पुरा करोति निःशेषां पाण्डवानामनीकिनीम्।
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्॥ 7-187-53(53705)
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः।
शरैः पूर्णायतोत्सृष्टौर्द्रावयंस्तव वाहिनीम्॥ 7-187-54(53706)
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्।
आससाद रणे द्रोणं तदासीत्तुमुलं महत्॥ 7-187-55(53707)
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्।
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान्॥ 7-187-56(53708)
संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष।
हतानि च विकीर्णानि सरीराणि शरीरिणाम्॥ 7-187-57(53709)
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः।
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे॥ 7-187-58(53710)
तथा संसक्तयुद्धं तदभवद्भृशदारुणम्।
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत॥ ॥ 7-187-59(53711)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे सप्ताशीत्यधिकशततमोऽध्यायः॥ 187 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-187-1 त्रिभागमात्रशेषायां मुहूर्तत्रयावशिष्टायाम्। तत्र सूर्योदयोत्तरं त्रयोदश्यां द्रोणस्य नाशः। त्रयोदश्यां शुक्लयि युद्धारम्भस्य--हेमन्ते प्रथमेमासे शुक्लपक्षे त्रयोदशीम्। प्रवृत्तं भारतं युद्धमिति भारतसावित्र्यामुक्तस्य चोपपत्तिः सिध्यति॥ 5-187-44 शशाप शपथं कृतवान्॥ 5-187-45 इष्टं यागहोमादि। आपूर्तं क्षेत्रारामादि। क्षात्रं द्रुपदकुलोत्पन्नत्वात्। ब्राह्मण्यं याजोपयाजयोर्ब्राह्मणयेस्तपसा ब्राह्मणरूपादग्नेश्च जातत्वात्। एतत्सर्वं तस्य नश्यतु। यस्य शत्रुर्द्रोणो मुच्येत मरणं न प्राप्नुयात्। यं वा मां वा. द्रोणो यदि पराभवेदिति॥ 5-187-187 सप्ताशीत्याधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.